श्रवणम्

4.3.8 समानपद
क॒था शर्धा᳚य म॒रुता᳚मृ॒ताय᳚ क॒था सू॒रे बृ᳚ह॒ते पृ॒च्छ्यमा᳚नः ।
प्रति᳚ ब्र॒वो॑दि᳚तये तु॒राय॒ साधा᳚ दि॒वो जा᳚तवेदश्चिकि॒त्वान् ॥
▶ पदपाठः (Word-by-word)
क॒था । शर्धा᳚य । म॒रुता᳚म् । ऋ॒ताय᳚ । क॒था । सू॒रे । बृ॒ह॒ते । पृ॒च्छ्यमा᳚नः ।
प्रति᳚ । ब्र॒वः॒ । अदि᳚तये । तु॒राय᳚ । साध᳚ । दि॒वः । जा॒त॒॑वे॒दः॒ । चि॒कि॒त्वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ऋताय गन्त्रे सत्यभूताय वा मरुतां शर्धाय बलभुताय गणाय कथा केन हेतुना मदीयमागः प्रतिब्रूयाः । तेन पृच्छ्यमानः सन् तस्मै बृहते महते सूरे सूर्याय कथा कथं वदेः । तथादितये देव्यै तुराय त्वरितगमनाय वायवे । अदितयेऽदीनाय तुराय वा । प्रतिब्रवः । मदीय मागः कथं प्रतिब्रूयाः । यस्मादेवं तस्मात् हे जातवेदोऽग्ने चिकित्वान् तत्सर्वं जानास्त्वं दिवो दीप्तान्देवान् साध । साधय । गच्छ । यद्वा । दिवो द्युलोकस्य यज्ञवहनलक्शणं कार्यं साध । कुरु । सूरे । सर्वविधीनां छन्दसि विकल्पतत्वात् ङेर्यत्वाभावः । अतो गुण इति पररूपत्वम् । पृच्छ्यमानः । पृच्छज्ञीप्सायाम् । कर्मणि यक् । ग्रहज्यादिना सम्प्रसारणम् । शानचो लसार्वधातुकानुदात्तत्वे यक्स्वरः । साध । राध साध संसिद्धौ । अन्तर्भावितण्यर्थस्य लोटि व्यत्ययेन शप् ॥ ८ ॥