श्रवणम्

4.3.11
ऋ॒तेनाद्रिं॒ व्य᳚सन्भि॒दन्त॒ः समङ्गि᳚रसो नवन्त॒ गोभि᳚ः ।
शु॒नं नर॒ः परि᳚ षदन्नु॒षास᳚मा॒विः स्व᳚रभवज्जा॒ते अ॒ग्नौ ॥
▶ पदपाठः (Word-by-word)
ऋ॒तेन᳚ । अद्रि᳚म् । वि । अ॒स॒न् । भि॒दन्तः᳚ । सम् । अङ्गि᳚रसः । न॒व॒न्त॒ । गोभिः᳚ ।
शु॒नम् । नरः᳚ । परि᳚ । स॒द॒न् । उ॒षस᳚म् । आ॒विः । स्वः᳚ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अङ्गिरसो मेधातिथिप्रभृतय ऋतेन यज्ञेन हेतुना गवां निरोधकमद्रिं पर्वतं भिदन्तो विदारयन्तः सन्तो व्यसन् । व्यक्शिपन् । ततस्ते बोभिः सं नवंत । समगच्छन्त । नरः कर्मणां नेतारस्ते शुनं सुखेनोषसं परि सदन् । परितः प्रप्नुवन् । ततः स्वः सूर्योऽप्याविरभवत् । सर्वमेतदग्नौ त्वयि जाते मन्थनेन निष्पादिते सत्यभूदिति । असन् । अस्यतेर्लुङि च्लेरस्यतिवक्तीत्यादिनाङादेशः । अनित्यमागमशासनमिति थुगभावः ॥ ११ ॥