श्रवणम्

4.3.10
ऋ॒तेन॒ हि ष्मा᳚ वृष॒भश्चि᳚द॒क्तः पुमा{4}᳚ अ॒ग्निः पय᳚सा पृ॒ष्ठ्ये᳚न ।
अस्प᳚न्दमानो अचरद्वयो॒धा वृषा᳚ शु॒क्रं दु᳚दुहे॒ पृश्नि॒रूधः᳚ ॥
▶ पदपाठः (Word-by-word)
ऋ॒तेन᳚ । हि । स्म॒ । वृ॒ष॒भः । चि॒त् । अ॒क्तः । पुमा᳚न् । अ॒ग्निः । पय᳚सा । पृ॒ष्ठ्ये᳚न ।
अस्प᳚न्दमानः । अ॒च॒र॒त् । व॒यः॒॑धाः । वृषा᳚ । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः᳚ । ऊधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषभोऽभिमतफलवर्षकः पुमान् श्रेश्ठः सोऽग्निरृतेन सत्यभुतेन पृष्ठ्येन धारकेण पयसाक्तः सिक्तो भवति । हिष्मचित् त्रयः पुरणाः । वयोधा अन्नदः सोऽग्निरस्पन्दमान एकत्रावस्थितः सन् एवाचरत् । सर्वत्र तेजसा चरति । तथा वृषापां वर्षकः पृष्निः सूर्यः शुक्रं पय ऊधोऽन्तरिक्षं मेघं वा दुदुहे । दोग्धि । अक्तः । अन्जू व्यक्तिम्रक्शणगतिषु । कर्मणिनिष्ठा । दुदुहे । द्विकर्मकोऽयं धातुः । ऊधः । अकथितं चेति कर्मसंज्ञा ॥ १० ॥