ऋ॒तेन᳚ ऋ॒तं निय᳚तमीळ॒ आ गोरा॒मा सचा॒ मधु᳚मत्प॒क्वम᳚ग्ने ।
कृ॒ष्णा स॒ती रुश᳚ता धा॒सिनै॒षा जाम᳚र्येण॒ पय᳚सा पीपाय ॥
कृ॒ष्णा स॒ती रुश᳚ता धा॒सिनै॒षा जाम᳚र्येण॒ पय᳚सा पीपाय ॥
पदपाठः (Word-by-word)
ऋ॒तेन᳚ । ऋ॒तम् । नि॑य᳚तम् । ई॒ळे॒ । आ । गोः । आ॒मा । सचा᳚ । मधु᳚॑मत् । प॒क्वम् । अ॒ग्ने॒ ।
कृ॒ष्णा । स॒ती । रुश᳚ता । धा॒सिना᳚ । ए॒षा । जाम᳚र्येण । पय᳚सा । पी॒पा॒य॒ ॥
कृ॒ष्णा । स॒ती । रुश᳚ता । धा॒सिना᳚ । ए॒षा । जाम᳚र्येण । पय᳚सा । पी॒पा॒य॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने ऋतेन सत्यभूतेन यज्ञेन नियतमनुस्यूतमृतमुदकं गोर्धेनोः पय एळे । आयाचे । संनाय्यादिहविरर्थं गव्यं पयस्त्वां याच इत्यभिप्रायः । आमापक्वा सा गौर्मधुमन्माधुर्योपेतं पक्वं पयः सचा सह धारयति । कृष्णा कृष्णवर्णा सत्येषा गौ रुशता श्वेतेन धासिना प्राणिनां धारकेण जामर्येण । जायन्त इति जाः प्रजाः । ता जा अमर्येणामरणनिमित्तेन तेन पयसा पीपाय । प्रजाः प्याययति ॥ तवैष महिमा यद्रसन्परिणामयन्नेवं करोशि । पीपाय । प्यायतेर्लिटि लिड्यङोश्चेति पीभावः ॥ ९ ॥