श्रवणम्

4.16.6
विश्वा᳚नि श॒क्रो नर्या᳚णि वि॒द्वान॒पो रि᳚रेच॒ सखि᳚भि॒र्निका᳚मैः ।
अश्मा᳚नं चि॒द्ये बि᳚भि॒दुर्वचो᳚भिर्व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚नि । श॒क्रः । नर्या᳚णि । वि॒द्वान् । अ॒पः । रि॒रे॒च॒ । सखि᳚॑भिः । नि॑का᳚मैः ।
अश्मा᳚नम् । चि॒त् । ये । बि॒भि॒दुः । वचः᳚॑भिः । व्र॒जम् । गो॑म᳚न्तम् । उ॒शिजः᳚ । वि । व॒व्रु॒रिति᳚ वव्रुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वानि समस्तानि नर्याणि मनुष्याणां हितानि वृष्ट्यादीनि कार्याणि विद्वान् जानन् शक्रः समर्थ इन्द्रो निकामैर्निइकामयमानेभ्यः सखिभिर्मित्रभूतेभ्यो मरुद्भ्यः । व्यत्ययेन चतुर्थ्यर्थे तृतीया । आपो वृष्टिलक्षणान्युदकानि रिरेच । रिक्तीचकार । इन्द्रः सस्यादिफलसिद्ध्यर्थं मेघस्थान्युदकानि मरुद्भ्यो दत्तवानित्यर्थः । यद्वा । निकामैर्निकामयमानैः सखिभिर्मरुद्भिः सहितः सन् अपो नभसः सकाशात् । आप इत्यन्तरिक्षनामैतत् । अत्र विभक्ति व्यत्ययः । रिरेच । व्यतिरिक्तो बभूव । ये मरुतो वचोभिर्वाग्रूपैर्ध्वनिभिरश्मानं चित् पर्वतमपि मेघं वा । अश्मेति मेघनामैतत् । बिभिदुः । अभैत्सुः । उशिजः कामयमानास्ते मरुतो गोमन्तं गोभिरुपेतं वज्रमङ्गिरसां सम्बन्धि गोस्थानं वि वव्रुः । आच्छादयामासुः ॥ ६ ॥