श्रवणम्

4.16.11
यासि॒ कुत्से᳚न स॒रथ᳚मव॒स्युस्तो॒दो वात᳚स्य॒ हर्यो॒रीशा᳚नः ।
ऋ॒ज्रा वाजं॒ न गध्यं॒ युयू᳚षन्क॒विर्यदह॒न्पार्या᳚य॒ भूषा᳚त् ॥
▶ पदपाठः (Word-by-word)
यासि᳚ । कुत्से᳚न । स॒॑रथ᳚म् । अ॒व॒स्युः । तो॒दः । वात᳚स्य । हर्योः᳚ । ईशा᳚नः ।
ऋ॒ज्रा । वाज᳚म् । न । गध्य᳚म् । युयू᳚षन् । क॒विः । यत् । अह᳚न् । पार्या᳚य । भूषा᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अवस्युः कुत्सस्य रक्षणमिच्छन् । छन्दसि क्यच् परेच्छायामपि दृश्यते । तोदस्तोदकः शत्रूणां हिंसको वातस्य वायुसदृशयोर्वेगवतोर्हर्योरश्वयोरीशान ईश्वरस्त्वं कुत्सेन कुत्साख्येन राजर्षिणा सरथं समानरथं यासि । गच्छसि । गध्यं ग्राह्यम् । गध्यं गृण्हातेः । ऋज्रा वाजं न गध्यं युयूषन्नित्यपि निगमो भवतीति निरुक्तम् । ५-१५ । वाजं नान्नमिव ऋज्रा ऋजुगामिनावश्वौ युयूशन् स्वकीये रथे योजयन् कविः प्राज्ञः कुत्सो यद्यस्मिन्नहन्नहनि दिवसे पार्याय पारणाय आपन्निस्तरणाय भूशात् । प्रभवते । तस्मिन्नेव दिने कुत्सेन सरथं यासीति पूर्वेन सम्बन्धः ॥ ११ ॥