श्रवणम्

4.7.1
अ॒यमि॒ह प्र᳚थ॒मो धा᳚यि धा॒तृभि॒र्होता॒ यजि᳚ष्ठो अध्व॒रेष्वीड्य᳚ः ।
यमप्न᳚वानो॒ भृग᳚वो विरुरु॒चुर्वने᳚षु चि॒त्रं वि॒भ्वं᳚ वि॒शेवि᳚शे ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । इ॒ह । प्र॒थ॒मः । धा॒यि॒ । धा॒तृ॑भिः᳚ । होता᳚ । यजि᳚ष्ठः । अ॒ध्व॒रेषु᳚ । ईड्यः᳚ ।
यम् । अप्न᳚वानः । भृग᳚वः । वि॒॑रु॒रु॒चुः । वने᳚षु । चि॒त्रम् । वि॒॑भ्व᳚म् । वि॒शे॑वि᳚शे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिहेत्येकादशर्चं सप्तमं सूक्तं वामदेवस्यार्षमाग्नेयम् । आद्या जगती द्वितीयाद्याः पञ्चानुष्ठुभः शिष्टास्त्रिष्टुभम् । तथा चानुक्रान्तम् । अयमिहादौ जगती पञ्चानुष्तुभ इति । सूक्तविनियोगो लैङ्गिकः । अग्निप्रणयनेऽयमिहेति वैश्यस्य प्रतिपत् । तथा च सूत्रितम् । अयमिह प्रथमो धायि धातृभिरिति तु राजन्यवैश्ययोराद्ये । आ. २-१७ । इति ॥

धातृभिर्यज्ञार्थं कर्म कुर्वद्भिरध्वर्युभिरिहास्मिन्यज्ञे होता देवानामाह्वाता यजिष्ठोऽतिशयेन यष्टाध्वरेषु यागेष्वीड्य ऋत्विग्भिः स्तूयमानः प्रथमः सर्वेषां देवानां मुख्योऽयमाहवनीयादिस्थानेषु प्रत्यक्षेणोपलभ्यमानोऽग्निर्धायि । अधायि । निहितः । दधातेः कर्मणि लुङ् । बहुलं छन्दस्यमाङ्योग इत्यडभावः । तिङ्ङतिङ इति निघातः । अयमग्निरित्युक्तम् । कोऽसावग्निरित्यत आह । अप्नवानो भृगुसम्बन्धी कश्चिदृषिः स चान्ये भृगवश्च वनेष्वरण्येषु चित्रं दावाग्निरूपेण बहुधा दर्शनीयं विशे विशे । वीप्सया सर्वजनव्याप्तिर्गृह्यते । सर्वस्या विशव्ः प्रजाया विभ्वं विभुमीश्वरं यं देवानां हविर्वाहकत्वेन प्रसिद्धमग्निं विरुरुचुः । दीप्तियुक्तं कुर्वन्ति स्म । यमिति यच्छब्दस्यायमिती दंशब्देन सम्बन्धः ॥ १ ॥