श्रवणम्

4.37.3
त्र्यु॒दा॒यं दे॒वहि᳚तं॒ यथा᳚ व॒ः स्तोमो᳚ वाजा ऋभुक्षणो द॒दे वः᳚ ।
जु॒ह्वे म᳚नु॒ष्वदुप᳚रासु वि॒क्षु यु॒ष्मे सचा᳚ बृ॒हद्दि᳚वेषु॒ सोम᳚म् ॥
▶ पदपाठः (Word-by-word)
त्रि॒॑उ॒दा॒यम् । दे॒व॑हि᳚तम् । यथा᳚ । वः॒ । स्तोमः᳚ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । द॒दे । वः॒ ।
जु॒ह्वे । म॒नु॒ष्वत् । उप᳚रासु । वि॒क्षु । यु॒ष्मे इति᳚ । सचा᳚ । बृ॒हत्॑दि᳚वेषु । सोम᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्र्युदायं त्र्युदयं सवनत्रयगमनोपेतं देवहितं सोमाख्यमन्नं देवेभ्यो हितं देवैर्वा विहितम् । तृतीयसवनस्थमित्यर्थः । तद्यथा वो युष्मान्ददे । धारयति । हे वाज हे ऋभुक्षण ऋभवो यथा सोत्मः स्तोत्रं वो ददे । धारयति । उपरासु । उप देवयजनसमीपे रमन्त इत्युपराः । तासु विक्षु प्रजासु बृहद्दिवेषु प्रभुतदीप्तिषु देवेषु मध्ये मनुष्वत् मनुरिव युष्मे युष्मदर्थं सचा सहानेकग्रहेषु प्रस्थितं जुह्वे । जुहोमि सोमं ॥ ३ ॥