सेदृ᳚भवो॒ यमव᳚थ यू॒यमिन्द्र᳚श्च॒ मर्त्य᳚म् ।
स धी॒भिर᳚स्तु॒ सनि᳚ता मे॒धसा᳚ता॒ सो अर्व᳚ता ॥
स धी॒भिर᳚स्तु॒ सनि᳚ता मे॒धसा᳚ता॒ सो अर्व᳚ता ॥
पदपाठः (Word-by-word)
सः । इत् । ऋ॒भ॒वः॒ । यम् । अव᳚थ । यू॒यम् । इन्द्रः᳚ । च॒ । मर्त्य᳚म् ।
सः । धी॒भिः । अ॒स्तु॒ । सनि᳚ता । मे॒ध॑सा᳚ता । सः । अर्व᳚ता ॥
सः । धी॒भिः । अ॒स्तु॒ । सनि᳚ता । मे॒ध॑सा᳚ता । सः । अर्व᳚ता ॥
सायणभाष्यम् (Sayana Commentary)
हे ऋभवो यूयमिन्द्रश्च यं मर्त्यमवथ । रक्षथ । सेत्स एवास्तु । भवतु । नान्यः श्रेष्ठो भवत्वित्यर्थः । स एव धीभिः कर्मभिः सनिता सम्भक्ता भवतु । मेधसाता मेधसातौ यज्ञे स एवार्वतारनवताश्वेन युक्तो भवतु ॥ ६ ॥