ते वो᳚ हृ॒दे मन᳚से सन्तु य॒ज्ञा जुष्टा᳚सो अ॒द्य घृ॒तनि᳚र्णिजो गुः ।
प्र वः᳚ सु॒तासो᳚ हरयन्त पू॒र्णाः क्रत्वे॒ दक्षा᳚य हर्षयन्त पी॒ताः ॥
प्र वः᳚ सु॒तासो᳚ हरयन्त पू॒र्णाः क्रत्वे॒ दक्षा᳚य हर्षयन्त पी॒ताः ॥
पदपाठः (Word-by-word)
ते । वः॒ । ह्र॒दे । मन᳚से । स॒न्तु॒ । य॒ज्ञाः । जुष्टा᳚सः । अ॒द्य । घृ॒त॑नि᳚र्निजः । गुः॒ ।
प्र । वः॒ । सु॒तासः᳚ । ह॒र॒य॒न्त॒ । पू॒र्णाः । क्रत्वे᳚ । दक्षा᳚य । ह॒र्ष॒य॒न्त॒ । पी॒ताः ॥
प्र । वः॒ । सु॒तासः᳚ । ह॒र॒य॒न्त॒ । पू॒र्णाः । क्रत्वे᳚ । दक्षा᳚य । ह॒र्ष॒य॒न्त॒ । पी॒ताः ॥
सायणभाष्यम् (Sayana Commentary)
अद्यास्मिन्यागदेने त एते यज्ञा यागसाधनाः सोमा वो हृदे हृदयाय मनसे तत्प्रीयते सन्तु । भवन्तु । अद्यास्मिन्दिने जुष्तासः पर्याप्ताः सोमा घृतनिर्णिजो मिश्रणद्रव्येण दीप्तरूपा गुः । गच्छन्तु युष्मद्धृदयम् । सुतासोऽभिषुताः सोमाश्चमसेषु पूर्णा वो युष्मदर्थं प्र हरयन्त । प्रह्रियन्ते । यद्वा । हर्यतेः कान्तिकर्मण इदं रूपम् । प्रकर्षेण वो युश्मान् कामयन्ते । क्रत्वे क्रतवे कर्मणे कक्षयोत्साहाय पीता हर्षयन्त । हर्षयन्तु ॥ २ ॥