श्रवणम्

4.37.5
ऋ॒भुमृ᳚भुक्षणो र॒यिं वाजे᳚ वा॒जिन्त᳚मं॒ युज᳚म् ।
इन्द्र᳚स्वन्तं हवामहे सदा॒सात᳚मम॒श्विन᳚म् ॥
▶ पदपाठः (Word-by-word)
ऋ॒भुम् । ऋ॒भु॒क्ष॒णः॒ । र॒यिम् । वाजे᳚ । वा॒जिन्॑त᳚मम् । युज᳚म् ।
इन्द्र᳚स्वन्तम् । ह॒वा॒म॒हे॒ । स॒दा॒॑सात᳚मम् । अ॒श्विन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋभुक्षण ऋभव ऋभुमुरुभासमानं रयिं धनरूपम् । तद्धेतुभूतत्वात् ताच्छब्द्यम् । वाजे सङ्ग्रामे वाजिन्तममत्यन्तबलवन्तं युजं परस्परयोगोपेतमिन्द्रस्वन्तमिन्द्रवन्तमिन्द्रियवन्तं सदासतमं सर्वदा दातृतममश्विनमश्ववन्तं भवतां गणं हवामहे । आह्वयामि ॥ ५ ॥