श्रवणम्

4.47.2
इन्द्र᳚श्च वायवेषां॒ सोमा᳚नां पी॒तिम᳚र्हथः ।
यु॒वां हि यन्तीन्द᳚वो नि॒म्नमापो॒ न स॒ध्र्य᳚क् ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । च॒ । वा॒यो॒ इति᳚ । ए॒षा॒म् । सोमा᳚नाम् । पी॒तिम् । अ॒र्ह॒थः॒ ।
यु॒वाम् । हि । यन्ति᳚ । इन्द᳚वः । नि॒म्नम् । आपः᳚ । न । स॒ध्र्य᳚क् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रश्चेत्यादि स्तृचो दशरात्रे चतुर्थेऽहन्यैन्द्रवायवो द्वितीयः । सूत्रितं च । इन्द्रश्च वायवेषां सोमानामा चिकितान सुक्रतू । आ. ७-११ । इति ॥

हे वायो त्वमिन्द्रश्चैषां ग्रुहितानाम् सोमानां पीतिं पानमर्हथः । युवां हि खल्विन्दवः सोमा यन्ति । प्राप्नुवन्ति । निम्नं खातप्रदेशमापो न सध्र्यक् उदकानि यथा सहैव गच्छन्ति तद्वत्सर्वे सोमा युवां यि यन्ति ॥ २ ॥