श्रवणम्

4.6.11
अका᳚रि॒ ब्रह्म᳚ समिधान॒ तुभ्यं॒ शंसा᳚त्यु॒क्थं यज᳚ते॒ व्यू᳚ धाः ।
होता᳚रम॒ग्निं मनु᳚षो॒ नि षे᳚दुर्नम॒स्यन्त᳚ उ॒शिज॒ः शंस᳚मा॒योः ॥
▶ पदपाठः (Word-by-word)
अका᳚रि । ब्रह्म᳚ । स॒म्॑इ॒धा॒न॒ । तुभ्य᳚म् । शंसा᳚ति । उ॒क्थम् । यज᳚ते । वि । ऊं॒ इति᳚ । धाः॒ ।
होता᳚रम् । अ॒ग्निम् । मनु᳚षः । नि । से॒दुः॒ । न॒म॒स्यन्तः᳚ । उ॒शिजः᳚ । शंस᳚म् । आ॒योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे समिधान समिध्यमानाग्ने तुभ्यं त्वदर्थं ब्रह्म स्तोत्रमकारि । अस्माभिः कृतम् । होतोक्थं शस्त्ररूपं स्तोत्रं शंसाति । शंसति । शन्सु स्तुतौ । लेटोऽडाटावित्याडगमः । त्वां यजमानो यजते । अतः कारणादस्मभ्यं धनं वि धाः । विधेहि । दधातेश्छान्दसे लुङि बहुलं छन्दसीत्यडभावः । उ इति पादपुरणः । किञ्च आयोर्मनुष्यस्य शंसं शंसनीयं होतारं देवानामाह्वातारमग्निं त्वां नमस्यन्तः पूजयन्त उशिजः पश्वादिलक्षणं धनं कामयमाना मनुषो मनुष्या ऋत्विजो नि षेदुः । उपाविशन् । सेवन्त इत्यर्थः ॥ ११ ॥