श्रवणम्

4.6.10
ये ह॒ त्ये ते॒ सह᳚माना अ॒यास᳚स्त्वे॒षासो᳚ अग्ने अ॒र्चय॒श्चर᳚न्ति ।
श्ये॒नासो॒ न दु᳚वस॒नासो॒ अर्थं᳚ तुविष्व॒णसो॒ मारु᳚तं॒ न शर्ध᳚ः ॥
▶ पदपाठः (Word-by-word)
ये । ह॒ । त्ये । ते॒ । सह᳚मानाः । अ॒यासः᳚ । त्वे॒षासः᳚ । अ॒ग्ने॒ । अ॒र्चयः᳚ । चर᳚न्ति ।
श्ये॒नासः᳚ । न । दु॒व॒स॒नासः᳚ । अर्थ᳚म् । तु॒वि॒॑स्व॒नसः᳚ । मारु᳚तम् । न । शर्धः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ये ह खलु त्ये ते प्रसिद्धाः सहमानाः शत्रूनभिभवन्तोऽयासो गमनशीलास्त्वेषासो दीप्ता दुवसनासः परिचरणीयास्त्ते त्वदीया अर्चयो रश्मयः श्येनासो न अश्वा इवार्थं गन्तव्यं चरन्ति । गच्छन्ति । कीदृशाः । मारुतं शर्धो न मरुत्सम्बन्धी गण इव तुविष्वणसस्तुविस्वना अधिकध्वनयो भवन्ति ॥ १० ॥