श्रवणम्

4.6.3
य॒ता सु᳚जू॒र्णी रा॒तिनी᳚ घृ॒ताची᳚ प्रदक्षि॒णिद्दे॒वता᳚तिमुरा॒णः ।
उदु॒ स्वरु᳚र्नव॒जा नाक्रः प॒श्वो अ᳚नक्ति॒ सुधि᳚तः सु॒मेकः᳚ ॥
▶ पदपाठः (Word-by-word)
य॒ता । सु॒॑जू॒र्णिः । रा॒तिनी᳚ । घृ॒ताची᳚ । प्र॒॑द॒क्षि॒णित् । दे॒व॑ता᳚तिम् । उ॒रा॒णः ।
उत् । ऊं॒ इति᳚ । स्वरुः᳚ । न॒व॒॑जाः । न । अ॒क्रः । प॒श्वः । अ॒न॒क्ति॒ । सु॑धि᳚तः । सु॒॑मेकः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

याता संयता सुजूर्णिः शोभनजवा सुष्ठु जीर्णा पुराणी वा । घृताची घृतमञ्चतीति घृताची जुहोः । रातिनी । रातिर्धनम् । हविर्लक्षणधनवती । आज्यपूर्णा भवतीत्यर्थः । देवतातिं यज्ञं तथोराण उरु कुर्वाणोऽध्वर्युरग्निर्वा प्रदक्षिणित् । अप्रदक्षिणमेतीति प्रदक्षिणित् । प्रदक्षिणगमनो भवति । अकारलोपश्छान्दसः । नवजा नवजातस्तदानीमेवोत्पादितः स्वरुर्न । यूपशकलवाची स्परुरत्र यूपं लक्षयति । चषालवन्तः स्वरवः पृथिवाम् । ऋग्वे. ३-८-१० । इत्यादिषु स्वरुशब्देन यूपाभिधानाच्च । नकारः समुच्चये । यूपोऽप्युदु उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । उन्नतो भवति । किञ्च अक्र आक्रमिता । सुमेकः सुदीप्तः सुधितः स्वधितिरित्यर्थः । सोऽपि पश्वः पशूननक्ति । गच्छति । यद्वा । सुधितः स्वरुरेवोदु उत्कृष्टः पश्वः पशूननक्ति । स्वरुणा पशुमनक्तीति श्रुतेः ॥ ३ ॥