श्रवणम्

4.6.6
भ॒द्रा ते᳚ अग्ने स्वनीक सं॒दृग्घो॒रस्य᳚ स॒तो विषु᳚णस्य॒ चारु᳚ः ।
न यत्ते᳚ शो॒चिस्तम᳚सा॒ वर᳚न्त॒ न ध्व॒स्मान᳚स्त॒न्वी॒३॒᳚ रेप॒ आ धु᳚ः ॥
▶ पदपाठः (Word-by-word)
भ॒द्रा । ते॒ । अ॒ग्ने॒ । सु॒॑अ॒नी॒क॒ । स॒म्॑दृक् । घो॒रस्य᳚ । स॒तः । विषु᳚णस्य । चारुः᳚ ।
न । यत् । ते॒ । शो॒चिः । तम᳚सा । वर᳚न्त । न । ध्व॒स्मानः᳚ । त॒न्वि᳚ । रेपः᳚ । आ । धु॒रिति᳚ धुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्वनीक शोभनज्वालाग्ने घोरस्य भीतजनकस्यापि सतो विषुणस्य विष्वक् सर्वतो व्याप्तस्य ते तव चारू रमणीया भद्रा स्तुत्या कल्याणी वा मूर्तिः सन्दृक् संदृष्टिः । सम्यक् दृश्या भवतीत्यर्थः । यद्यस्मात्ते शोचिर्दीप्तिं तमसान्धकाररेण न वरन्त । वारयन्ति निशाः । यस्माच्च ध्वस्मानोध्वंसका राक्षसादयस्ते तन्वि तव शरीरे रेपः पापं ध्वंसनादिरूपं नाधुः । न दधति । न कुर्वन्ति । अतः संदृगिति संबन्धः ॥ ६ ॥