अ॒हं कुत्स᳚मार्जुने॒यं न्यृ᳚ञ्जे॒॑हं क॒विरु॒शना॒ पश्य᳚ता मा ॥
पदपाठः (Word-by-word)
अ॒हम् । कुत्स᳚म् । आ॒र्जु॒ने॒यम् । नि । ऋ॒ञ्जे॒ । अ॒हम् । क॒विः । उ॒शना᳚ । पश्य᳚त । मा॒ ॥
सायणभाष्यम् (Sayana Commentary)
अहं मनुरिति सप्तर्चं पञ्चमं सूक्तं वामदेवस्यार्षम् । आत्रेयमनुक्रमणीका । अहं मनुः सप्ताद्याभिस्तिसृभिरिन्द्रमिवात्मानमृषिस्तुष्टावेन्द्रो वात्मानं परा नवाष्टौ वा श्येनस्तुतिरिति । अत्राहं मनुरित्याद्याभिस्तिसृभिरात्मानमिन्द्ररूपेण वामदेवः स्तुतवान् । यद्वा । इन्द्र एवात्मनं स्तुतवान् । अतो वामदेववाक्यपक्षे वामदेव ऋषिरिन्द्रो देवता । इन्द्रवाक्यपक्षे त्विन्द्र ऋशिः परमात्मा देवता । त्रिष्टुप् छन्दः । अवशिष्टानां वामदेव ऋषिः । अवशिष्टाभिरुत्तरसूक्तेन च सुपर्णात्मना ब्रह्म स्तूयते । अतस्तासां प्राब्रह्म देवता । श्येननाम्न्येकाहे माध्यन्दिनसवने मरुत्वतीयशस्त्र इदं सूक्तम् । सूत्रितं च । श्येनाजिराभ्यामभिचरन्यजेताहं मनुर्गर्भे नुसन् । आ. ९-७ । इति ॥
इदमादिमन्त्रत्रयेण गर्भे वसन्वामदेव उत्पन्नतत्त्वज्ञानः सन् सार्वात्म्यं स्वानुभवं मन्वादिरूपेण प्रदर्शयन्नाह । अहं वामदेव इन्द्रो वा मनुरभवम् । सर्वस्य मन्ता प्रजापतिरस्मि । अहमेव सूर्यश्च सर्वस्य प्रेरकः सविता चास्मि । विप्रो मेधावी कक्षीवान् दीर्घतमसः पुत्र एतत्संज्ञक ऋशिरप्यहमेवास्मि । अर्जुनेयमर्जुन्याः पुत्रं कुत्समेतन्नामकमृषिमहमेव न्यृञ्जे । नितरां प्रसाधयामि । कविः क्रान्तदर्श्युशनैतदाख्य ऋशिरहमेवास्मि । उक्तमुपलक्शणम् । परमार्थदृष्ट्या कृत्समप्यहमेवास्मीत्यर्थः । हे जना मा मां सर्वात्मकं पश्यत । यूयमप्येवमेव सस्वरूपमनुभवतेत्युक्तं भवति ॥ १ ॥