श्रवणम्

4.33.9
अपो॒ ह्ये᳚षा॒मजु᳚षन्त दे॒वा अ॒भि क्रत्वा॒ मन᳚सा॒ दीध्या᳚नाः ।
वाजो᳚ दे॒वाना᳚मभवत्सु॒कर्मेन्द्र᳚स्य ऋभु॒क्षा वरु᳚णस्य॒ विभ्वा᳚ ॥
▶ पदपाठः (Word-by-word)
अपः᳚ । हि । ए॒षा॒म् । अजु᳚षन्त । दे॒वाः । अ॒भि । क्रत्वा᳚ । मन᳚सा । दीध्या᳚नाः ।
वाजः᳚ । दे॒वाना᳚म् । अ॒भ॒व॒त् । सु॒॑कर्मा᳚ । इन्द्र᳚स्य । ऋ॒भु॒क्षाः । वरु᳚णस्य । वि॑भ्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषामृभूणामपोऽश्वरथनिर्माणादिरूपं कर्म देवा इन्द्रादयोऽजुषन्त । आसेवन्त । इन्द्रो हरी युयुजे अश्विना रथमित्यादिमन्त्रोक्तप्रकारेण स्वीकृतवन्त इत्यर्थः । कीदृशास्ते । क्रत्वा वरप्रदानरूपेण कर्मणा मनसा शोभनेन चित्तेनानुग्रहयुक्तेनाभि दीध्याना दीप्यमानाः । देवानामनुग्रहेण किं लब्धमित्याह । सुकर्माशोभनव्यापारो वाजः कनीयान्देवानां सर्वेषां सम्बन्ध्यभवत् । तथेन्द्रस्य संबन्ध्यृभुक्षा ऋभुज्येष्ठः । व्भ्वा मध्यमो वरुणस्य सम्बन्ध्यभवत् ॥ ९ ॥