इ॒ह प्र॒जामि॒ह र॒यिं ररा᳚णा इ॒ह श्रवो᳚ वी॒रव᳚त्तक्षता नः ।
येन᳚ व॒यं चि॒तये॒मात्य॒न्यान्तं वाजं᳚ चि॒त्रमृ᳚भवो ददा नः ॥
येन᳚ व॒यं चि॒तये॒मात्य॒न्यान्तं वाजं᳚ चि॒त्रमृ᳚भवो ददा नः ॥
पदपाठः (Word-by-word)
इ॒ह । प्र॒॑जाम् । इ॒ह । र॒यिम् । ररा᳚णाः । इ॒ह । श्रवः᳚ । वी॒र॑व᳚त् । त॒क्ष॒त॒ । नः॒ ।
येन᳚ । व॒यम् । चि॒तये᳚म । अति᳚ । अ॒न्यान् । तम् । वाज᳚म् । चि॒त्रम् । ऋ॒भ॒वः॒ । द॒द॒ । नः॒ ॥
येन᳚ । व॒यम् । चि॒तये᳚म । अति᳚ । अ॒न्यान् । तम् । वाज᳚म् । चि॒त्रम् । ऋ॒भ॒वः॒ । द॒द॒ । नः॒ ॥
सायणभाष्यम् (Sayana Commentary)
नो अस्माकमिह यज्ञे रराणा रममानाः प्रजां पुत्रपौत्रादिरूपां तक्षत । सम्पादयत । इहैव यज्ञे रयिं च तक्षत । इहैव यज्ञे श्रवो यशो वीरवद्वीरैर्भृत्यादिभिरुपेतं तक्षत । किञ्च वयं येन वाजेनान्यानस्मत्समानति चितयेम । अतिक्रम्य ज्ञायेमहि । तं चित्रं चायनीयं वाजमन्नं हे ऋभवो नो दद । अस्मभ्यं दत्त ॥ ९ ॥