श्रवणम्

4.36.6
स वा॒ज्यर्वा॒ स ऋषि᳚र्वच॒स्यया॒ स शूरो॒ अस्ता॒ पृत᳚नासु दु॒ष्टरः᳚ ।
स रा॒यस्पोषं॒ स सु॒वीर्यं᳚ दधे॒ यं वाजो॒ विभ्वा{4}᳚ ऋ॒भवो॒ यमावि᳚षुः ॥
▶ पदपाठः (Word-by-word)
सः । वा॒जी । अर्वा᳚ । सः । ऋषिः᳚ । व॒च॒स्यया᳚ । सः । शूरः᳚ । अस्ता᳚ । पृत᳚नासु । दु॒स्तरः᳚ ।
सः । रा॒यः । पोष᳚म् । सः । सु॒॑वीर्य᳚म् । द॒धे॒ । यम् । वाजः᳚ । वि॑भ्वा᳚ । ऋ॒भवः᳚ । यम् । आवि᳚षुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स वाजी वेजनवान् बलवान् सन् अर्वारनकुशलो भवति । स ऋषिरतीन्द्रियज्ञानी सन् वचस्यया स्तुत्या युक्तो भवति । स शूरो विक्रान्तः सन् अस्ता क्षेप्ता शत्रूणां भवति । स्वयं च पृतनासु सङ्ग्रामेषु दुष्टरो नाभिभाव्यो भवति । स एव रायस्पोषं धनपुष्टिं दधे । धत्ते । स सुवीर्यं सुवीरत्वं दधे । धत्ते । यं मनुष्यं वाजो विभ्वा ऋभवश्चाविषुः । अरक्षन् । स एवमेवं भवतीति । अन्त्यस्य बहुवन्निर्देशस्त्रयाणामृभुव्यवहारप्राचुर्याभिप्रायः ॥ ६ ॥