श्रवणम्

4.36.8
यू॒यम॒स्मभ्यं᳚ धि॒षणा᳚भ्य॒स्परि᳚ वि॒द्वांसो॒ विश्वा॒ नर्या᳚णि॒ भोज᳚ना ।
द्यु॒मन्तं॒ वाजं॒ वृष᳚शुष्ममुत्त॒ममा नो᳚ र॒यिमृ᳚भवस्तक्ष॒ता वयः᳚ ॥
▶ पदपाठः (Word-by-word)
यू॒यम् । अ॒स्मभ्य᳚म् । धि॒षणा᳚भ्यः । परि᳚ । वि॒द्वांसः᳚ । विश्वा᳚ । नर्या᳚णि । भोज᳚ना ।
द्यु॒॑मन्त᳚म् । वाज᳚म् । वृष᳚॑शुष्मम् । उ॒त्॑त॒मम् । आ । नः॒ । र॒यिम् । ऋ॒भ॒वः॒ । त॒क्ष॒त॒ । आ । वयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋभवो यूयमस्मभ्यं धिषणाभ्यस्परि स्तुतिभ्यो निमित्तभुताभ्यः । परीति पञ्चम्यर्थानुवादी । यद्वा । अस्मन्मतिभ्योऽधिकानि नर्यानि नृभ्यो हितानि विश्वा सर्वाणि भोजना भोग्यानि विद्वांसो जानन्तः सन्त आ तक्षत । सम्पादयत । किञ्च द्युमन्तं दीप्तिमन्तं हिरण्यादिरूपं वाजं बलवन्तं वृषशुष्मं सेक्तॄणां बलवतां शोषकमुत्तमं रयिं नोऽस्माकं वयोऽन्नं चा तक्षत हे ऋभवः ॥ ८ ॥