श्रवणम्

4.36.3 समानपद
तद्वो᳚ वाजा ऋभवः सुप्रवाच॒नं दे॒वेषु᳚ विभ्वो अभवन्महित्व॒नम् ।
जिव्री॒ यत्सन्ता᳚ पि॒तरा᳚ सना॒जुरा॒ पुन॒र्युवा᳚ना च॒रथा᳚य॒ तक्ष᳚थ ॥
▶ पदपाठः (Word-by-word)
तत् । वः॒ । वा॒जाः॒ । ऋ॒भ॒वः॒ । सु॒॑प्र॒वा॒च॒नम् । दे॒वेषु᳚ । वि॒॑भ्वः॒ । अ॒भ॒व॒त् । म॒हि॒॑त्व॒नम् ।
जिव्री॒ इति᳚ । यत् । सन्ता᳚ । पि॒तरा᳚ । स॒ना॒॑जुरा᳚ । पुनः᳚ । युवा᳚ना । च॒रथा᳚य । तक्ष᳚थ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजा ऋभवो हे विभ्वो विभवः । इत्ररपेक्शया परस्परं बहुवचनमित्युक्तम् । वो युष्माकं तन्महित्वनं महत्त्वं महात्म्यं देवेषु मध्ये सुप्रवाचनं प्रवाच्यमभवत् । तदित्युक्तं यदित्याह । जिव्री वृद्धौ सन्ता सन्तौ सनाजुरा सदा जीर्णौ सन्तौ पितरा पितरौ पुनर्युवाना नित्यतरुणौ चरथाय यथेच्छं सञ्चरणाय तक्षथ । सम्पादितवन्तः ॥ ३ ॥