वि॒हि होत्रा॒ अवी᳚ता॒ विपो॒ न रायो᳚ अ॒र्यः ।
वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य᳚ पी॒तये᳚ ॥
वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य᳚ पी॒तये᳚ ॥
पदपाठः (Word-by-word)
वि॒हि । होत्रा᳚ । अवी᳚ताः । विपः᳚ । न । रायः᳚ । अ॒र्यः ।
वायो॒ इति᳚ । आ । च॒न्द्रेण᳚ । रथे᳚न । या॒हि । सु॒तस्य᳚ । पी॒तये᳚ ॥
वायो॒ इति᳚ । आ । च॒न्द्रेण᳚ । रथे᳚न । या॒हि । सु॒तस्य᳚ । पी॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
विहि होत्रा इति पञ्चर्चं तृतीयं सूक्तं वामदेव्यं वायव्यम् । अत्रानुक्रमणिका । विहि पञ्च वायव्यमिति । सूक्तविनियोगो लैङ्गिकः । आद्या दशरात्रे चतुर्थेऽहनि प्रौगशस्त्रे वायव्यतृचस्य द्वितीया । तथा च सूत्रितम् । विहि होत्रा अवीता वायो शतं हरीणाम् । आ. ७-११ । इति ॥
हे वायो विहि । वीहि । भक्षय । होत्रा होमसाधिकाः सोमाहुतीरविता अन्यैः पूर्वमभक्षिता विपो न शत्रूणां वेपयिता राजेव । किञ्चार्यः सोत्तुर्मम रायो धनानि सम्पादयेति शेषः । हे वायो चन्द्रेणाह्लादकेन रथेनायाहि सुतस्य सोमस्य पीतये पानाय ॥ १ ॥