श्रवणम्

4.24.2 समानपद
स वृ᳚त्र॒हत्ये॒ हव्य॒ः स ईड्य॒ः स सुष्टु᳚त॒ इन्द्र᳚ः स॒त्यरा᳚धाः ।
स याम॒न्ना म॒घवा॒ मर्त्या᳚य ब्रह्मण्य॒ते सुष्व᳚ये॒ वरि᳚वो धात् ॥
▶ पदपाठः (Word-by-word)
सः । वृ॒त्र॒॑हत्ये᳚ । हव्यः᳚ । सः । ईड्यः᳚ । सः । सु॑स्तु᳚तः । इन्द्रः᳚ । स॒त्य॑रा᳚धाः ।
सः । याम᳚न् । आ । म॒घ॑वा᳚ । मर्त्या᳚य । ब्र॒ह्म॒ण्य॒ते । सुष्व᳚ये । वरि᳚वः । धा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इन्द्रो वृत्रहत्ये वृत्राणां शत्रूणां हत्ये हनने निमित्तभूते सति यामन्युद्धे हव्य आह्वातव्यो भवति । स इन्द्र ईढ्यः स्तुत्यो भवति । स इन्द्रः सुष्टुतः सन् सत्यराधा यजमानेभ्यो दातुं सत्यधनो भवति । मघवा धनवान् स इन्द्रो ब्रह्मण्यते स्तोत्रमिच्छते सुष्वये सोमं सुन्वते मर्त्याय मनुष्याय यजमानाय वरिव्बो धनम् । वरिव इति धननामैतत् । आ धात् । आ समन्ताद्ददाति ॥ २ ॥