श्रवणम्

4.24.3
तमिन्नरो॒ वि ह्व᳚यन्ते समी॒के रि᳚रि॒क्वांस᳚स्त॒न्व᳚ः कृण्वत॒ त्राम् ।
मि॒थो यत्त्या॒गमु॒भया᳚सो॒ अग्म॒न्नर᳚स्तो॒कस्य॒ तन᳚यस्य सा॒तौ ॥
▶ पदपाठः (Word-by-word)
तम् । इत् । नरः᳚ । वि । ह्व॒य॒न्ते॒ । स॒म्॑ई॒के । रि॒रि॒क्वांसः᳚ । त॒न्वः᳚ । कृ॒ण्व॒त॒ । त्राम् ।
मि॒थः । यत् । त्या॒गम् । उ॒भया᳚सः । अग्म᳚न् । नरः᳚ । तो॒कस्य᳚ । तन᳚यस्य । सा॒तौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरो नेतारो मनुष्याः समीके युद्धे तमित्तमेवेन्द्रं वि ह्वयन्ते । विविधमाह्वानं कुर्वते । तन्वः स्वकीयानि शरीराणि रिरिक्वांसस्तपसा रेचयन्तो यजमानास्तमेवेन्द्रं त्रां त्रातारं कृण्वत । कृण्वते । कुर्वते । यद्यदा मिथः परस्परं सङ्गता उभयास उभये यजमानाः स्तोतारश्च त्यागं त्यागकर्तारं दातारमिन्द्रमग्मन् उपगच्छन्ति तदा नर उभयविधा मनुष्यास्तोकस्य पुत्रस्य तनयस्य पौत्रस्य च सातौ लाभे निमित्तभूते सति तमेवेन्द्रं त्रातारं कुर्वन्तीति सम्बन्धः ॥ ३ ॥