श्रवणम्

4.24.6
कृ॒णोत्य᳚स्मै॒ वरि᳚वो॒ य इ॒त्थेन्द्रा᳚य॒ सोम᳚मुश॒ते सु॒नोति᳚ ।
स॒ध्री॒चीने᳚न॒ मन॒सावि᳚वेन॒न्तमित्सखा᳚यं कृणुते स॒मत्सु᳚ ॥
▶ पदपाठः (Word-by-word)
कृ॒णोति᳚ । अ॒स्मै॒ । वरि᳚वः । यः । इ॒त्था । इन्द्रा᳚य । सोम᳚म् । उ॒श॒ते । सु॒नोति᳚ ।
स॒ध्री॒चीने᳚न । मन᳚सा । अवि᳚॑वेनन् । तम् । इत् । सखा᳚यम् । कृ॒णु॒ते॒ । स॒मत्॑सु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो यजमानः सोमयुशते कामयमानायेत्थामुत्र स्वर्गलोके स्थितायेन्द्राय सुनोति अभिषवं करोति इन्द्रोऽप्यस्मै यजमानाय वरिवो धनं कृणोति । करोति । सध्रीचीनेन सङ्गतेन मनसा प्रवणेन चित्तेनाविवेनम् । वेनतिः कान्तिकर्मा । विवेनो विगतेच्छः । तदन्योऽविवेनः । आत्मानं कामयमानं तमित्तमेव सुन्वन्तं यजमानं सखायं मित्रं समत्सु सङ्ग्रामेष्विन्द्रः कृणुते । करोति ॥ ६ ॥