श्रवणम्

4.24.7
य इन्द्रा᳚य सु॒नव॒त्सोम᳚म॒द्य पचा᳚त्प॒क्तीरु॒त भृ॒ज्जाति᳚ धा॒नाः ।
प्रति᳚ मना॒योरु॒चथा᳚नि॒ हर्य॒न्तस्मि᳚न्दध॒द्वृष᳚णं॒ शुष्म॒मिन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । इन्द्रा᳚य । सु॒नव᳚त् । सोम᳚म् । अ॒द्य । पचा᳚त् । प॒क्तीः । उ॒त । भृ॒ज्जाति᳚ । धा॒नाः ।
प्रति᳚ । म॒ना॒योः । उ॒चथा᳚नि । हर्य᳚न् । तस्मि᳚न् । द॒ध॒त् । वृष᳚णम् । शुष्म᳚म् । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आद्यास्मिन्दिवसे यो यजमान इन्द्राय परमैश्वर्ययुक्ताय देवाय सोमं सोमलक्षणमन्नं सुनवत् सुनयात् अभिषवं कुर्यात् । तथा यः पक्तीः पक्तव्यांश्च पुरोडाशादीन्पचात् पचेत् पचनं कुर्यात् । उतापि च यो धाना भर्जनयोग्यान्यवान् । अत्र भृष्टयववाची धानाशब्दस्तद्योग्यं यवमात्रं लक्षयति । भृज्जाति घृज्जेत् भर्जनं कुर्यात् । इन्द्रो मनायोः स्तुतिमिच्छतो यजमानस्योचथानि स्तोत्राणि प्रति हर्यन् प्रतिकामयमानः सन् तस्मिन्यजमाने वृषणं कामानां वर्षणसमर्थं शुष्मं बलं दधत् । धारयति ॥ ७ ॥