क इ॒मं द॒शभि॒र्ममेन्द्रं᳚ क्रीणाति धे॒नुभि᳚ः ।
य॒दा वृ॒त्राणि॒ जङ्घ᳚न॒दथै᳚नं मे॒ पुन᳚र्ददत् ॥
य॒दा वृ॒त्राणि॒ जङ्घ᳚न॒दथै᳚नं मे॒ पुन᳚र्ददत् ॥
पदपाठः (Word-by-word)
कः । इ॒मम् । द॒श॑भिः᳚ । मम᳚ । इन्द्र᳚म् । क्री॒णा॒ति॒ । धे॒नु॑भिः᳚ ।
य॒दा । वृ॒त्राणि᳚ । जङ्घ᳚नत् । अथ᳚ । ए॒न॒म् । मे॒ । पुनः᳚ । द॒द॒त् ॥
य॒दा । वृ॒त्राणि᳚ । जङ्घ᳚नत् । अथ᳚ । ए॒न॒म् । मे॒ । पुनः᳚ । द॒द॒त् ॥
सायणभाष्यम् (Sayana Commentary)
मम मदीयमिमं स्वभूतमिन्द्रं धेनुभिः प्रीणयित्रीभिर्दशभिर्दशङ्ख्याकाभिः स्तुतिभिः कः क्रीणाति । क्रयं करोति । तदानीं हे क्रेतारो युष्माकं मध्यएवमपि समयः क्रियते । यदायमिन्द्रो वृत्राणि त्वदीयान् शत्रून् जङ्घनत् हन्यात् अथानन्तरमेवैनमिन्द्रं मे मह्यं पुनर्ददत् । पुनर्दद्यात् ॥ १० ॥