श्रवणम्

4.17.12
किय᳚त्स्वि॒दिन्द्रो॒ अध्ये᳚ति मा॒तुः किय᳚त्पि॒तुर्ज᳚नि॒तुर्यो ज॒जान᳚ ।
यो अ᳚स्य॒ शुष्मं᳚ मुहु॒कैरिय᳚र्ति॒ वातो॒ न जू॒तः स्त॒नय᳚द्भिर॒भ्रैः ॥
▶ पदपाठः (Word-by-word)
किय᳚त् । स्वि॒त् । इन्द्रः᳚ । अधि᳚ । ए॒ति॒ । मा॒तुः । किय᳚त् । पि॒तुः । ज॒नि॒तुः । यः । ज॒जान᳚ ।
यः । अ॒स्य॒ । शुष्म᳚म् । मु॒हु॒कैः । इय᳚र्ति । वातः᳚ । न । जू॒तः । स्त॒नय᳚त्॑भिः । अ॒भ्रैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इन्द्रो मातुर्जनन्याः सकाशात्कियत्स्विद्यावद्बलमध्येति । अधिगच्छति । पितुः सकाशात्कियद्यावद्बलमधिगच्छति । य इन्द्रो जनितुर्जयितुर्यस्मात्प्रजापतेः सकाशादिदं दृश्यमानं जगज्जजान । आजनयत् । य इन्द्रस्तस्मात्प्रजापतेः सकाशादस्य जगतः शुष्मं यावद्बलं मुहुकैर्मुहुर्मुहुरियर्ति । प्रेरयति । स्तनयद्भिर्गर्जद्भिरभ्रैर्मेघैर्जूतः प्रेरितो वातो न वायुरिव तथा स इन्द्रः स्तोतृभिर्जूतः प्रेरितो हविश्प्रदानार्थमाहूतो भवति ॥ १२ ॥