श्रवणम्

4.17.2
तव᳚ त्वि॒षो जनि᳚मन्रेजत॒ द्यौ रेज॒द्भूमि᳚र्भि॒यसा॒ स्वस्य᳚ म॒न्योः ।
ऋ॒घा॒यन्त᳚ सु॒भ्व१॒᳚ः पर्व᳚तास॒ आर्द॒न्धन्वा᳚नि स॒रय᳚न्त॒ आपः᳚ ॥
▶ पदपाठः (Word-by-word)
तव᳚ । त्वि॒षः । जनि᳚मन् । रे॒ज॒त॒ । द्यौः । रेज᳚त् । भूमिः᳚ । भि॒यसा᳚ । स्वस्य᳚ । म॒न्योः ।
ऋ॒घा॒यन्त᳚ । सु॒॑भ्वः᳚ । पर्व᳚तासः । आर्द᳚न् । धन्वा᳚नि । स॒रय᳚न्ते । आपः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्विषो दीप्यमानस्य तव त्वदीये जनिमन् जन्मनि सति द्यौरन्तरिक्षं स्वस्य त्वदीयान्मन्योः कोपात् । पञ्चम्यर्थे षष्ठी । भियसा जातभयेन रेजत । अरेजत् । अकम्पत । भूमिश्च रेजत् । कम्पमाना बभूव । स्वभ्वो महान्तः पर्वतासः । पर्वता मेघाः । ऋघायन्त । सस्यादीनां वृष्टि प्रदानार्थं नियामकेन त्वयाबाध्यन्त । तथा मेघा आर्दन् । प्राणिनां पिपासारूपां पीडामहिम्सन् । तथा मेघा धन्वान्युदकरहितान्देशानापोऽपः सरयन्ते । गमयन्ति ॥ २ ॥