श्रवणम्

4.17.5
य एक᳚ इच्च्या॒वय᳚ति॒ प्र भूमा॒ राजा᳚ कृष्टी॒नां पु᳚रुहू॒त इन्द्र᳚ः ।
स॒त्यमे᳚न॒मनु॒ विश्वे᳚ मदन्ति रा॒तिं दे॒वस्य᳚ गृण॒तो म॒घोनः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । एकः᳚ । इत् । च्य॒वय᳚ति । प्र । भूम᳚ । राजा᳚ । कृ॒ष्टी॒नाम् । पु॒रु॒॑हू॒तः । इन्द्रः᳚ ।
स॒त्यम् । ए॒न॒म् । अनु᳚ । विश्वे᳚ । म॒द॒न्ति॒ । रा॒तिम् । दे॒वस्य᳚ । गृ॒ण॒तः । म॒घोनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कृष्टीनां सर्वासां प्रजानां राजा प्रभुः पुरुहूतो बहुभिराहूत एक इद्देवानां मध्ये मुख्य एव य इन्द्रो भूम भूतं निष्पन्नं शत्रुभ्यो भयं प्रच्यावयति । प्रकर्षेण नाशयति । विश्वे सर्वे यजमाना मघोनो मघवतः । हविर्लक्शनधनवत इत्यर्थः । देवस्येन्द्रसमाश्रयात् द्योतमानस्य गृणतः स्तुवतो रातिं बन्धुमेनमिन्द्रमनु लक्षीकृत्य सत्यमेव मदन्ति । स्तुवन्ति ॥ ५ ॥