श्रवणम्

4.17.10
अ॒यं शृ᳚ण्वे॒ अध॒ जय᳚न्नु॒त घ्नन्न॒यमु॒त प्र कृ᳚णुते यु॒धा गाः ।
य॒दा स॒त्यं कृ᳚णु॒ते म॒न्युमिन्द्रो॒ विश्वं᳚ दृ॒ळ्हं भ᳚यत॒ एज᳚दस्मात् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । शृ॒ण्वे॒ । अध᳚ । जय᳚न् । उ॒त । घ्नन् । अ॒यम् । उ॒त । प्र । कृ॒णु॒ते॒ । यु॒धा । गाः ।
य॒दा । स॒त्यम् । कृ॒णु॒ते । म॒न्युम् । इन्द्रः᳚ । विश्व᳚म् । दृ॒ळ्हम् । भ॒य॒ते॒ । एज᳚त् । अ॒स्मा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधापि च अयमिन्द्रो जयन् शत्रून्विजयन् शृण्वे । श्रूयते । सर्वत्र प्रख्यातो भवति । उतापि च घन् शत्रून्हिंसन् सर्वत्र श्रूयते । उतापि चायमिन्द्रो युधा युद्धेन गाः पशून्प्रक्रुणुते । शत्रुसकाशादाहरति । किञ्च इन्द्रो यदा मन्युं कोपं सत्यमेव कृणुते । द्विषदर्थं करोति । तदानीं दृढं स्थिरं स्थावररूपमेजत्कंपमानं जङ्गमरूपं च विश्वं समस्तं जगदस्मादिन्द्राद्भयते । बिभेति ॥ १० ॥