श्रवणम्

4.17.6 समानपद
स॒त्रा सोमा᳚ अभवन्नस्य॒ विश्वे᳚ स॒त्रा मदा᳚सो बृह॒तो मदि᳚ष्ठाः ।
स॒त्राभ᳚वो॒ वसु᳚पति॒र्वसू᳚नां॒ दत्रे॒ विश्वा᳚ अधिथा इन्द्र कृ॒ष्टीः ॥
▶ पदपाठः (Word-by-word)
स॒त्रा । सोमाः᳚ । अ॒भ॒व॒न् । अ॒स्य॒ । विश्वे᳚ । स॒त्रा । मदा᳚सः । बृ॒ह॒तः । मदि᳚ष्ठाः ।
स॒त्रा । अ॒भ॒वः॒ । वसु᳚॑पतिः । वसू᳚नाम् । दत्रे᳚ । विश्वाः᳚ । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वे सर्वे सोमा अस्येन्द्रस्य सत्रा । सत्रेति सत्यनामैतत् । सत्यमेव प्रभूता अभवन् । किञ्च मदासो मदा मदकराः सोमा बृहतो महतोऽस्येन्द्रस्य मदिष्ठा मादयितृतमाः सत्रा सत्यमेवाभवन् । हे इन्द्र त्वं वसुपतिर्धनपतिः । न केवलं धनपतिः किन्तु वसूनां सर्वेषां पश्वादीनां धनानां पतिः सत्रा सत्यमेवाभवः । भवसि । हे इन्द्र त्वं दत्रे धने निमित्तभूते सति विश्वाः सर्दाः कृष्टीः स्तोत्रीः प्रजा अधिथाः । धारयसि ॥ ६ ॥