श्रवणम्

4.5.10
अध᳚ द्युता॒नः पि॒त्रोः सचा॒साम᳚नुत॒ गुह्यं॒ चारु॒ पृश्ने᳚ः ।
मा॒तुष्प॒दे प᳚र॒मे अन्ति॒ षद्गोर्वृष्ण᳚ः शो॒चिष॒ः प्रय᳚तस्य जि॒ह्वा ॥
▶ पदपाठः (Word-by-word)
अध᳚ । द्यु॒ता॒नः । पि॒त्रोः । सचा᳚ । आ॒सा । अम᳚नुत । गुह्य᳚म् । चारु᳚ । पृश्नेः᳚ ।
मा॒तुः । प॒दे । प॒र॒मे । अन्ति᳚ । सत् । गोः । वृष्णः᳚ । शो॒चिषः᳚ । प्र॑य᳚तस्य । जि॒ह्वा ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध अथ द्युतानो दीप्यमानः पित्रोर्द्यावापृथिव्योः सचा सह मध्ये व्याप्तः सन् पृश्नेर्गोः सम्बन्धि चारु रमणीयं गुह्यमूधसि निगूढं पय असास्वकीयेनास्येनामनुत । पानायाबुध्यत । उक्तमेवार्थं विवृणोति । मातुः क्षीरादिनिर्मात्र्या गोः परमे पद उत्खृष्टे स्थान ऊधोलक्षणेऽन्ति सत् समीपे विद्यमानं क्षीरं वृष्णः फलानां वर्षितुः शोचिषो दीप्तस्य प्रयतस्याहवनीयादिरूपेण नियतस्य वैश्वानरस्य जिह्वा पातुमिच्छतीति शेषः ॥ १० ॥