श्रवणम्

4.5.13
का म॒र्यादा᳚ व॒युना॒ कद्ध᳚ वा॒ममच्छा᳚ गमेम र॒घवो॒ न वाज᳚म् ।
क॒दा नो᳚ दे॒वीर॒मृत᳚स्य॒ पत्नी॒ः सूरो॒ वर्णे᳚न ततनन्नु॒षासः᳚ ॥
▶ पदपाठः (Word-by-word)
का । म॒र्यादा᳚ । व॒युना᳚ । कत् । ह॒ । वा॒मम् । अच्छ᳚ । ग॒मे॒म॒ । र॒घवः᳚ । न । वाज᳚म् ।
क॒दा । नः॒ । दे॒वीः । अ॒मृत᳚स्य । पत्नीः᳚ । सूरः᳚ । वर्णे᳚न । त॒त॒न॒न् । उ॒षसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

का मर्यादा का प्रीत्यादिव्यवस्था का च वयुना प्रज्ञानं पदार्थविषयम् कद्ध किं च वामं वननीयं पदार्थजातम् । एतत्सर्वमच्छ गमेम । अभिगच्छेम । तत्र दृष्टान्तः । रघवो न वाजम् । शीघ्रगामिनोऽश्वादयः सङ्ग्राममिव तद्वत् । कदा कस्मिन्काले नोऽस्माकं व्यवहाराय देवीर्देव्यो द्योतमाना अमृतस्या मरणधर्मस्यादित्यस्य पत्नीः पत्न्यः पालयित्र्यः सूरः प्रसवित्र्य उषासो वर्णेन प्रकाशेन ततनन् । विस्तारयेयुः । एवं सूर्यसम्बन्धिन उषसः स्तुत्या सर्वात्मनो वैश्वानरस्य स्तुतिरवगन्तव्या । तनोतेर्लेटि बहुलं छन्दसीति विकरणस्य श्लुः । द्विर्भावहलादिशेषौ ॥ १३ ॥