श्रवणम्

4.5.14
अ॒नि॒रेण॒ वच᳚सा फ॒ल्ग्वे᳚न प्र॒तीत्ये᳚न कृ॒धुना᳚तृ॒पासः᳚ ।
अधा॒ ते अ᳚ग्ने॒ किमि॒हा व᳚दन्त्यनायु॒धास॒ आस᳚ता सचन्ताम् ॥
▶ पदपाठः (Word-by-word)
अ॒नि॒रेण᳚ । वच᳚सा । फ॒ल्ग्वे᳚न । प्र॒तीत्ये᳚न । कृ॒धुना᳚ । अ॒तृ॒पासः᳚ ।
अध᳚ । ते । अ॒ग्ने॒ । किम् । इ॒ह । व॒द॒न्ति॒ । अ॒ना॒यु॒धासः᳚ । अस᳚ता । स॒च॒न्ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनिरेण । इरान्नम् । तद्रहितेन फल्ग्वेनोक्थेन प्रतीत्येन प्रतिगन्तव्येन । आरोह्येणेत्यर्थः । कृधुना ह्रस्वेन । कृध्विति ह्रस्वनाम कृधोको वम्रक इति तन्नामसूक्तत्वात् । एवं विधेन वचसातृपासोऽतृप्ता जनाः । अध अधुनेहास्मिन् लोके हे अग्ने ते त्वां किं वदन्ति । निर्हविष्केण वचसा न किञ्चिल्लभ्यत इत्यर्थः । किन्त्वनायुधासः । आयुधशब्दः साधनं लक्षयति । हविरादिसाधनरहितास्तेऽसता जुःखेन सचन्ताम् । सङ्गच्छन्तां ॥ १४ ॥