अ॒ग्निरी᳚शे वस॒व्य᳚स्या॒ग्निर्म॒हः सौभ᳚गस्य ।
तान्य॒स्मभ्यं᳚ रासते ॥
तान्य॒स्मभ्यं᳚ रासते ॥
पदपाठः (Word-by-word)
अ॒ग्निः । ई॒शे॒ । व॒स॒व्य᳚स्य । अ॒ग्निः । म॒हः । सौभ᳚गस्य ।
तानि᳚ । अ॒स्मभ्य᳚म् । रा॒स॒ते॒ ॥
तानि᳚ । अ॒स्मभ्य᳚म् । रा॒स॒ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
अग्निर्देवो वसव्यस्य धनसमूहस्येशे । ईष्टे दातुम् । तथाग्निर्महो महतः सौभगस्य सुभगत्वस्यापीशे । अतस्तानि धनानि सौभाग्यं चास्मभ्यं रासते । ददातु ॥ ८ ॥