नू रो᳚दसी॒ अहि᳚ना बु॒ध्न्ये᳚न स्तुवी॒त दे᳚वी॒ अप्ये᳚भिरि॒ष्टैः ।
स॒मु॒द्रं न सं॒चर᳚णे सनि॒ष्यवो᳚ घ॒र्मस्व᳚रसो न॒द्यो॒३॒᳚ अप᳚ व्रन् ॥
स॒मु॒द्रं न सं॒चर᳚णे सनि॒ष्यवो᳚ घ॒र्मस्व᳚रसो न॒द्यो॒३॒᳚ अप᳚ व्रन् ॥
पदपाठः (Word-by-word)
नु । रो॒द॒सी॒ इति᳚ । अहि᳚ना । बु॒ध्न्ये᳚न । स्तु॒वी॒त । दे॒वी॒ इति᳚ । अप्ये᳚भिः । इ॒ष्टैः ।
स॒मु॒द्रम् । न । स॒म्॑चर᳚णे । स॒नि॒ष्यवः᳚ । घ॒र्म॑स्व᳚रसः । न॒द्यः᳚ । अप᳚ । व्र॒न् ॥
स॒मु॒द्रम् । न । स॒म्॑चर᳚णे । स॒नि॒ष्यवः᳚ । घ॒र्म॑स्व᳚रसः । न॒द्यः᳚ । अप᳚ । व्र॒न् ॥
सायणभाष्यम् (Sayana Commentary)
हे रोदसी द्यावा पृथिव्यौ युवामहिना बुध्न्येनाहिर्बुध्न्यनमकेन देवेन सह नु क्षिप्रमप्येभिरपनीयैरिष्ट्यैः कामैर्निमित्तभूतैः स्तुवीत । स्तुवे । सनिष्यवो धनानां सम्भक्तुमिच्छन्तः सञ्चरणे सञ्चराय समुद्रमध्यगमनाय समुद्रमिव । तं यथा स्तुवन्ति तद्वत् । यस्मादेते देवा घर्मस्वरसो दीप्तध्वनयो नद्यो नदीरप व्रन् । अपवृण्वन्तीति परोक्ष इव । अथवा ते देवा नदीरपवृण्वन्त्वित्याशीः । तस्मात् स्तुव इति सम्बन्धः ॥ ६ ॥