प्र प॒स्त्या॒३॒᳚मदि᳚तिं॒ सिन्धु᳚म॒र्कैः स्व॒स्तिमी᳚ळे स॒ख्याय᳚ दे॒वीम् ।
उ॒भे यथा᳚ नो॒ अह᳚नी नि॒पात᳚ उ॒षासा॒नक्ता᳚ करता॒मद᳚ब्धे ॥
उ॒भे यथा᳚ नो॒ अह᳚नी नि॒पात᳚ उ॒षासा॒नक्ता᳚ करता॒मद᳚ब्धे ॥
पदपाठः (Word-by-word)
प्र । प॒स्त्या᳚म् । अदि᳚तिम् । सिन्धु᳚म् । अ॒र्कैः । स्व॒स्तिम् । ई॒ळे॒ । स॒ख्याय᳚ । दे॒वीम् ।
उ॒भे इति᳚ । यथा᳚ । नः॒ । अह᳚नी॒ इति᳚ । नि॒॑पातः᳚ । उ॒षसा॒नक्ता᳚ । क॒र॒ता॒म् । अद᳚ब्धे॒ इति᳚ ॥
उ॒भे इति᳚ । यथा᳚ । नः॒ । अह᳚नी॒ इति᳚ । नि॒॑पातः᳚ । उ॒षसा॒नक्ता᳚ । क॒र॒ता॒म् । अद᳚ब्धे॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
पस्त्यां सर्वैर्गन्तव्यामदितिमदीनां देवमातरं तां देवीं सिन्धुं स्यन्दनशीलां नद्यभिमानिदेवीं स्वस्तिं सुखनिवासामेतन्नामिकां देवीं सख्यायानुकूल्यायार्कैर्मन्त्रैरीळे । स्तौ मि । उभे अहनी द्यावापृथिव्यौ यथा नोऽस्मान्निपातः नितरां पातः तथा स्तौ मि । उषासानक्ताहोरात्राभिमानिदेवते अदब्धे अदंभनीये करताम् । कुरुतां अभिमतमितिशेषः ॥ ३ ॥