श्रवणम्

4.55.9
उषो᳚ मघो॒न्या व᳚ह॒ सूनृ᳚ते॒ वार्या᳚ पु॒रु ।
अ॒स्मभ्यं᳚ वाजिनीवति ॥
▶ पदपाठः (Word-by-word)
उषः᳚ । म॒घो॒नि॒ । आ । व॒ह॒ । सूनृ᳚ते । वार्या᳚ । पु॒रु ।
अ॒स्मभ्य᳚म् । वा॒जि॒नी॒॑व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषो हे मघोनि धनवति हे सूनृते प्रियसत्यरूपवागभिमानिनि हे वाजिनीवत्यन्नवति देवि अस्मभ्यं वार्या वरणीयानि पुरु बहूनि धनान्या वह प्रापय ॥ ९ ॥