श्रवणम्

4.55.10
तत्सु नः᳚ सवि॒ता भगो॒ वरु᳚णो मि॒त्रो अ᳚र्य॒मा ।
इन्द्रो᳚ नो॒ राध॒सा ग᳚मत् ॥
▶ पदपाठः (Word-by-word)
तत् । सु । नः॒ । स॒वि॒ता । भगः᳚ । वरु᳚णः । मि॒त्रः । अ॒र्य॒मा ।
इन्द्रः᳚ । नः॒ । राध᳚सा । आ । ग॒म॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

येन राधसा धनेन सह सविता भगो वरुनो मित्रोऽर्यमेन्द्रः प्रत्येकमा गमत् । आगच्छति यज्ञम् । तद्रधो धनं ते देवा नोऽस्मभ्यं सु सुष्ठु प्रयच्छन्त्विति शेषः ॥ १० ॥