दे॒वैर्नो᳚ दे॒व्यदि᳚ति॒र्नि पा᳚तु दे॒वस्त्रा॒ता त्रा᳚यता॒मप्र᳚युच्छन् ।
न॒हि मि॒त्रस्य॒ वरु᳚णस्य धा॒सिमर्हा᳚मसि प्र॒मियं॒ सान्व॒ग्नेः ॥
न॒हि मि॒त्रस्य॒ वरु᳚णस्य धा॒सिमर्हा᳚मसि प्र॒मियं॒ सान्व॒ग्नेः ॥
पदपाठः (Word-by-word)
दे॒वैः । नः॒ । दे॒वी । अदि᳚तिः । नि । पा॒तु॒ । दे॒वः । त्रा॒ता । त्रा॒य॒ता॒म् । अप्र᳚॑युच्छन् ।
न॒हि । मि॒त्रस्य᳚ । वरु᳚णस्य । धा॒सिम् । अर्हा᳚मसि । प्र॒॑मिय᳚म् । सानु᳚ । अ॒ग्नेः ॥
न॒हि । मि॒त्रस्य᳚ । वरु᳚णस्य । धा॒सिम् । अर्हा᳚मसि । प्र॒॑मिय᳚म् । सानु᳚ । अ॒ग्नेः ॥
सायणभाष्यम् (Sayana Commentary)
अतितिर्देव्यदीना देवमाता देवैरन्यैर्मित्रादिभिः सह नोऽस्मान्नि पातु । पालयतु । तथा त्राता पालको देवः । इन्द्र इत्यर्थः । सोऽप्यप्रयुच्छन् अप्र्माद्यन् त्रायताम् । वयं च मित्रस्य वरुणस्याग्नेश्च सानु समुच्छ्रितं धासिमन्नं सोमादिलक्षणं प्रमियं हिंसितुं नह्यर्हामसि । आर्हामः । समर्था भवामः । किन्त्वनुष्ठानेन सम्वर्धितुमर्हाम इत्यर्थः ॥ ७ ॥