श्रवणम्

4.51.8
ता आ च᳚रन्ति सम॒ना पु॒रस्ता᳚त्समा॒नतः᳚ सम॒ना प᳚प्रथा॒नाः ।
ऋ॒तस्य᳚ दे॒वीः सद᳚सो बुधा॒ना गवां॒ न सर्गा᳚ उ॒षसो᳚ जरन्ते ॥
▶ पदपाठः (Word-by-word)
ताः । आ । च॒र॒न्ति॒ । स॒म॒ना । पु॒रस्ता᳚त् । स॒मा॒नतः᳚ । स॒म॒ना । प॒प्र॒था॒नाः ।
ऋ॒तस्य᳚ । दे॒वीः । सद᳚सः । बु॒धा॒नाः । गवा᳚म् । न । सर्गाः᳚ । उ॒षसः᳚ । ज॒र॒न्ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता उषस आ सर्वतश्चरन्ति । समना सर्वतः समानाः पुरस्तात्पुर्वस्यां दिशि समानतः समानाद्देशादन्तरिक्षात्समना सर्वतः पप्रथानाः प्रथमाना ऋतस्य यज्ञस्य सदसः सदः । तत्रत्यर्मृत्विग्घविरादिकमित्यर्थः । बुधाना बोधयन्त्यः । अन्तर्भावितण्यर्थोऽयम् । एवं महानुभावा उषसो जरन्ते । स्तूयन्ते । गवां सर्गा न उदकानां सृष्टय इव । गवां सर्गा न रश्मयः । ऋग्वे. ४-५२-५ । इति हि श्रुतम् । ता यथा सर्वत्र प्रसङ्गादुपकारत्वाच्च स्तूयन्ते तद्वत् ॥ ८ ॥