अस्थु᳚रु चि॒त्रा उ॒षसः᳚ पु॒रस्ता᳚न्मि॒ता इ᳚व॒ स्वर᳚वो॑ध्व॒रेषु᳚ ।
व्यू᳚ व्र॒जस्य॒ तम᳚सो॒ द्वारो॒च्छन्ती᳚रव्र॒ञ्छुच᳚यः पाव॒काः ॥
व्यू᳚ व्र॒जस्य॒ तम᳚सो॒ द्वारो॒च्छन्ती᳚रव्र॒ञ्छुच᳚यः पाव॒काः ॥
पदपाठः (Word-by-word)
अस्थुः᳚ । ऊं॒ इति᳚ । चि॒त्राः । उ॒षसः᳚ । पु॒रस्ता᳚त् । मि॒ताः॑इ᳚व । स्वर᳚वः । अ॒ध्व॒रेषु᳚ ।
वि । ऊं॒ इति᳚ । व्र॒जस्य᳚ । तम᳚सः । द्वारा᳚ । उ॒च्छन्तीः᳚ । अ॒व्र॒न् । शुच᳚यः । पा॒व॒काः ॥
वि । ऊं॒ इति᳚ । व्र॒जस्य᳚ । तम᳚सः । द्वारा᳚ । उ॒च्छन्तीः᳚ । अ॒व्र॒न् । शुच᳚यः । पा॒व॒काः ॥
सायणभाष्यम् (Sayana Commentary)
चित्राश्चायनीया उषसः पुरस्तात्पूर्वस्यां दिश्यस्थुः । तिष्ठन्ति । व्याप्ता इत्यर्थः । तत्र दृष्टान्तः । अध्वरेषु मिताः खाताः स्वरवो यूपा इव । यथा वेद्याः पुरतो भासन्ते तद्वत् । यद्यपि स्वरुशब्दो यूपच्छेदपतितप्रथमशकलवाची यः प्रथमः शकलः परापतेत्स स्वरुः कार्य इत्युक्त्वात् तथाप्यत्र मितशब्दश्रवणाच्चषालवन्तः स्वरवः । ऋग्वे. ३-८-१० । इत्यादौ तथा दर्शनाच्चात्र यूपवचनः । ता व्रजस्य वारकस्य तमसो द्वारा द्वाराणि व्युच्छन्तीः शुचयो दीप्ताः पावकाः शोधिका अव्रन् । व्यवृण्वन् ॥ २ ॥