श्रवणम्

4.51.5
यू॒यं हि दे᳚वीरृत॒युग्भि॒रश्वै᳚ः परिप्रया॒थ भुव᳚नानि स॒द्यः ।
प्र॒बो॒धय᳚न्तीरुषसः स॒सन्तं᳚ द्वि॒पाच्चतु᳚ष्पाच्च॒रथा᳚य जी॒वम् ॥
▶ पदपाठः (Word-by-word)
यू॒यम् । हि । दे॒वीः॒ । ऋ॒त॒युक्॑भिः᳚ । अश्वैः᳚ । प॒रि॒॑प्र॒या॒थ । भुव᳚नानि । स॒द्यः ।
प्र॒॑बो॒धय᳚न्तीः । उ॒ष॒सः॒ । स॒सन्त᳚म् । द्वि॒॑पात् । चतुः᳚॑पात् । च॒रथा᳚य । जी॒वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवीर्द्योतमाना उषसो यूयं हि खलु ऋतयुग्भिर्यज्ञगामिभिरश्वैर्भुवनानि सद्यः परिप्रयाथ । परितः प्रकृष्तं गच्छथ । किं कुर्वत्यः । ससन्तं स्वपन्तं द्विपाच्चतुष्पान्मनुष्यगवादिलक्षनं जीवं चरथाय चरणाय गमनादिव्यवहाराय प्रबोधयन्तीः प्रबोधयन्त्यः सत्यः परिप्रयाथ ॥ ५ ॥