श्रवणम्

4.51.6
क्व᳚ स्विदासां कत॒मा पु᳚रा॒णी यया᳚ वि॒धाना᳚ विद॒धुरृ᳚भू॒णाम् ।
शुभं॒ यच्छु॒भ्रा उ॒षस॒श्चर᳚न्ति॒ न वि ज्ञा᳚यन्ते स॒दृशी᳚रजु॒र्याः ॥
▶ पदपाठः (Word-by-word)
क्व᳚ । स्वित् । आ॒सा॒म् । क॒त॒मा । पु॒रा॒णी । यया᳚ । वि॒॑धाना᳚ । वि॒॑द॒धुः । ऋ॒भू॒णाम् ।
शुभ᳚म् । यत् । शु॒भ्राः । उ॒षसः᳚ । चर᳚न्ति । न । वि । ज्ञा॒य॒न्ते॒ । स॒॑दृशीः᳚ । अ॒जु॒र्याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

आसामुषसां मध्ये क्व स्विदभूदद्य कतमा पुराणी पुरातनी । यया ऋभूणां सम्बन्धीनि विधाना चमसादिनिर्माणानि विदधुः । अकुर्वन्नृभवः । यद्याश्चोषसः शुभ्रा दीप्ताः शुभं चरन्ति । शोभां दीप्तिं कुर्वन्ति । ता अजुर्या अशीर्णा नित्यनूतना न विज्ञायन्ते । यतः सदृशीः सदृश्यः सर्वेष्वपि दिवसेष्वेकरूपा अतोऽद्यतन्य एता एताः पुराण्य इति न ज्ञायन्ते उषासाद्रुश्यं सदृःईरद्य सदृशीरिदु श्वः । ऋग्वे. १-१२३-८ । इत्यत्र प्रतिपादितं ॥ ६ ॥