ता घा॒ ता भ॒द्रा उ॒षसः᳚ पु॒रासु᳚रभि॒ष्टिद्यु᳚म्ना ऋ॒तजा᳚तसत्याः ।
यास्वी᳚जा॒नः श᳚शमा॒न उ॒क्थैः स्तु॒वञ्छंस॒न्द्रवि᳚णं स॒द्य आप᳚ ॥
यास्वी᳚जा॒नः श᳚शमा॒न उ॒क्थैः स्तु॒वञ्छंस॒न्द्रवि᳚णं स॒द्य आप᳚ ॥
पदपाठः (Word-by-word)
ताः । घ॒ । ताः । भ॒द्राः । उ॒षसः᳚ । पु॒रा । आ॒सुः॒ । अ॒भि॒ष्टि॑द्यु᳚म्नाः । ऋ॒तजा᳚त॑सत्याः ।
यासु᳚ । ई॒जा॒नः । श॒श॒मा॒नः । उ॒क्थैः । स्तु॒वन् । शंस᳚न् । द्रवि᳚णम् । स॒द्यः । आप᳚ ॥
यासु᳚ । ई॒जा॒नः । श॒श॒मा॒नः । उ॒क्थैः । स्तु॒वन् । शंस᳚न् । द्रवि᳚णम् । स॒द्यः । आप᳚ ॥
सायणभाष्यम् (Sayana Commentary)
ता घ । घेति प्रसिद्धौ । ताः खलूपकारिण्यस्ता भद्राः कल्याण्यः स्तुत्या वा उषसः पुरा पुर्वमासुः । अभवन् । अभिष्टिद्युम्नाः अभिगमनमात्रेण द्युम्नं धनं यासां ताः । ऋतजातसत्याः । ऋतार्थं यज्ञार्थं जाताश्च ताः सत्याः सत्यफलाश्च तादृश्यः । यासूषः स्वीजानो यागं कुर्वाण उक्थैः शस्त्रैः शशमानः शम्समानः स्तुवन् सामभिः स्तोत्रं निश्पादयन् शंसन् शस्त्राणि कुर्वन् द्रविनं धनं सद्य आप । प्राप्नोति । ता भद्रा इति सम्बन्धः ॥ ७ ॥