र॒यिं दि᳚वो दुहितरो विभा॒तीः प्र॒जाव᳚न्तं यच्छता॒स्मासु᳚ देवीः ।
स्यो॒नादा वः᳚ प्रति॒बुध्य᳚मानाः सु॒वीर्य᳚स्य॒ पत᳚यः स्याम ॥
स्यो॒नादा वः᳚ प्रति॒बुध्य᳚मानाः सु॒वीर्य᳚स्य॒ पत᳚यः स्याम ॥
पदपाठः (Word-by-word)
र॒यिम् । दि॒वः॒ । दु॒हि॒त॒रः॒ । वि॒॑भा॒तीः । प्र॒जा॑व᳚न्तम् । य॒च्छ॒त॒ । अ॒स्मासु᳚ । दे॒वीः॒ ।
स्यो॒नात् । आ । वः॒ । प्र॒ति॒॑बुध्य᳚मानाः । सु॒॑वीर्य᳚स्य । पत᳚यः । स्या॒म॒ ॥
स्यो॒नात् । आ । वः॒ । प्र॒ति॒॑बुध्य᳚मानाः । सु॒॑वीर्य᳚स्य । पत᳚यः । स्या॒म॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे दिवो धुहितरो द्योतमानस्यादित्यस्य दुहितृस्थानीया विभातीर्विभात्यो विशेशेण भानं कुर्वत्योऽस्मासु प्रजावन्तं रयिं पुत्राद्युपेतं धनं यच्छत । दत्त । हे देवीर्देब्यः स्योनात्सुखान्निमित्तभूताद्वो युष्मान् प्रतिबुद्ध्यमानाः प्रतिबोधयन्तो वयं सुवीर्यस्य पतयः स्याम । पुत्रादिसहितस्य धनस्य पालका भवेम ॥ १० ॥