ता इन्न्वे॒३॒᳚व स᳚म॒ना स᳚मा॒नीरमी᳚तवर्णा उ॒षस᳚श्चरन्ति ।
गूह᳚न्ती॒रभ्व॒मसि᳚तं॒ रुश᳚द्भिः शु॒क्रास्त॒नूभि॒ः शुच᳚यो रुचा॒नाः ॥
गूह᳚न्ती॒रभ्व॒मसि᳚तं॒ रुश᳚द्भिः शु॒क्रास्त॒नूभि॒ः शुच᳚यो रुचा॒नाः ॥
पदपाठः (Word-by-word)
ताः । इत् । नु । ए॒व । स॒म॒ना । स॒मा॒नीः । अमी᳚त॑वर्णाः । उ॒षसः᳚ । च॒र॒न्ति॒ ।
गूह᳚न्तीः । अभ्व᳚म् । असि᳚तम् । रुश᳚त्॑भिः । शु॒क्राः । त॒नूभिः᳚ । शुच᳚यः । रु॒चा॒नाः ॥
गूह᳚न्तीः । अभ्व᳚म् । असि᳚तम् । रुश᳚त्॑भिः । शु॒क्राः । त॒नूभिः᳚ । शुच᳚यः । रु॒चा॒नाः ॥
सायणभाष्यम् (Sayana Commentary)
ता एवोषसः । इदिति पूरणः । नु अद्य सुमना समानाः । एकधेत्यर्थः । समानीरेकरूपा अमीतवर्णा आहिंसितवर्ना अपरिमितवर्णा वा उषसश्चरन्ति सर्वतः । किं कुर्वथः । अभ्वम् । महन्नामैतत् । अतिमहदसितं क्रुश्णं रूपं गूहन्तीर्गोपयन्त्यो रुशद्भी रोचमानैस्तनूभिः स्वशरीरैः शुक्रा दीप्ताः शुचयः शुद्धा रुचाना रोचमाना रोचयन्त्यो वा ॥ ९ ॥