उ॒च्छन्ती᳚र॒द्य चि᳚तयन्त भो॒जान्रा᳚धो॒देया᳚यो॒षसो᳚ म॒घोनी᳚ः ।
अ॒चि॒त्रे अ॒न्तः प॒णयः᳚ सस॒न्त्वबु᳚ध्यमाना॒स्तम᳚सो॒ विम᳚ध्ये ॥
अ॒चि॒त्रे अ॒न्तः प॒णयः᳚ सस॒न्त्वबु᳚ध्यमाना॒स्तम᳚सो॒ विम᳚ध्ये ॥
पदपाठः (Word-by-word)
उ॒च्छन्तीः᳚ । अ॒द्य । चि॒त॒य॒न्त॒ । भो॒जान् । रा॒धः॒॑देया᳚य । उ॒षसः᳚ । म॒घोनीः᳚ ।
अ॒चि॒त्रे । अ॒न्तरिति᳚ । प॒णयः᳚ । स॒स॒न्तु॒ । अबु᳚ध्यमानाः । तम᳚सः । वि॑म᳚ध्ये ॥
अ॒चि॒त्रे । अ॒न्तरिति᳚ । प॒णयः᳚ । स॒स॒न्तु॒ । अबु᳚ध्यमानाः । तम᳚सः । वि॑म᳚ध्ये ॥
सायणभाष्यम् (Sayana Commentary)
आद्यास्मिन्दिन उच्छन्तीस्तमो विवासयन्त्यो मघोनीर्धनवत्य उषसो भोजान् भोजयितॄन्यजमानान् तेषां राधोदेयाय सोमादिधनदानाय चितयन्त । प्रज्ञापयन्ति । अचित्रेऽचायनीये तमसो विमध्ये । अत्यन्तगाढान्धकार इत्यर्थः । तत्र पनयो वणिज इवादातारोऽबुध्यमानाः ससन्तु । स्वपन्तु ॥ ३ ॥